षकारात् पदन्तादुत्तरस्य नकारस्य णकारादेशो न भवति। निष्पानम्। दुष्पानम्। सर्पिष्पानम्। यजुष्पानम्।
षातिति किम्? निर्णयः।
पदान्तातिति किम्? कुष्णाति। पुष्णाति। पदे अन्तः पदान्तः इति सप्तमीसमासो ऽयम्, तेन इह न भवति, सुसर्पिष्केण। सुयजुष्केण। शेषाद् विभाषा
इति कप्।
"निष्पानम्(), दुष्पानम्()" इति। "इदुदुपधसय"
८।३।४१ इति विसर्जनीयस्य षत्वम्()। इह "कृत्यचः"
८।४।२८ इत्यनेन प्राप्तिः। "सर्पिष्पानम्, यजुष्पानम्()" इति। षष्ठीसमासः। "इसुसोः सामर्थ्ये"
८।३।४४ इत्यनुवत्र्तमाने "नित्यं समासे"
८।३।४५ इत्यादिना विसर्जनीयस्य षत्वम्()। अत्र "वा भावकरणयोः"
८।४।१० इति प्राप्तिः।
"पदान्तात्()" इति षष्ठीसमासोऽयमिति मन्यमानो यो देशयेत्()--अथेह णत्वप्रतिषेधः कस्मान्न भवति--सुसर्पिष्केणेति,
अत्र पदस्यान्तः षकार इति? तं प्रत्याह--"पदे अन्तः" इत्यादि। षष्ठीसमासे हि सति णत्वस्य प्रतिषेधः स्यात्(), न चायं षष्ठीसमासः, किं तर्हि/ "सप्तमी" (२।१।
४०) इति योगविभागात्? समासः--पदे परभूतेऽन्तः पदान्त इति। न चात्र पदे परभूते षकारोऽन्तः; कशब्दस्यापदसंज्ञकप्वात्()। तेनेह न भवति णत्वप्रतिषेधः। शोभनं सर्पिरस्येति बहुव्रीहिः, "शेषाद्विभाषा"
५।४।१५४ इति कप्()॥